74 विकल्पद्वयमुदयते । किं ते भेदाः स्वरूपेण समानाः स्वहेतो
रुत्पन्नाः येषु तत्सामान्यं तथाविधबोधाभिधानप्रमाणम् ?
आहो स्विदसमाना एवेति ? तत्र ते यदि9 स्वत एव समानाः
समानज्ञानाभिधानं स्वयमेव प्रवर्तयिष्यन्ति; किं तत्र सामान्ये
नार्थान्तरेण ? तथा च तदसामान्यमेव । तद्वलेन सामान्येन
ज्ञानाभिधानयोरप्रयुक्तेः । अथासमानाः, न तर्हि तेषां सामान्य
मस्ति । समानानां भावः सामान्यमित्युक्तवानसि । असमानानां
भावः सामान्यमिति ब्रुवाणः कथं श्लाघनीयप्रतिज्ञो देवानांप्रियः ?
स्वयमसमानभावा अपि तेनैव समानास्त इति चेत्; न; तथा
हि--किं ते क्रियन्ते ? किं नु वै व्यवसीयन्ते ? तत्र न तावत्क्रि
यन्ते, तेषां स्वहेतुभिरेव कृतत्वात् । कृतस्य च पुनः करणायो
गात् । अभूतप्रादुर्भावलक्षणत्वात् करणस्य । 10समानात्मना
क्रियन्त इति चेत्, ननु येषां निष्पन्नतया कृतेः कर्मता नास्ति
कथं ते क्रियन्ते नाम ? स्यादेतत्;--येन धर्मिरूपेण ते निष्पन्नाः
न तेन करोतेः कर्मभावमनुभवन्ति; किं तु समानेन पुना
रूपेणानिष्पन्नाः क्रियन्ते इति न किञ्चिदनुपपन्नम् । एवं तर्हि
तदेव समानं रूपं सामान्येन क्रियन्त इति स्यात् । तस्य च
भाविनिष्पत्तावनिष्पन्नस्य कारणान्तरतः पश्चादुपजायमानस्य
व्यक्तिवद्भावस्वभावता ब्रह्मणाऽप्यशक्या 11साधयितुम् । अर्था
न्तरमेव तद्भवतु न किञ्चिदनिष्टमापद्यत इति चेत्; सामान्यान्तर

  1. स्वरूपेणैव.

  2. समानस्वरूपेण.

  3. निवारयितुम्.