73 चे 3दर्थान्तरस्य सामान्यम्, सर्वं सर्वस्य सामान्यं स्यात्
विशेषाभावादिति । यद्धि खल्वेकं वस्त्वनेकत्र समवेतं तत्तदीयं
सामान्यम् । गोषु चाश्वो न समवेत इति कथमसौ गवांश्च ?
सामान्यं स्यादिति कुतो विशेषाभावः ? तदयमनैकान्तिको
4हेतुः कथमिष्टसिद्धये 5पर्याप्नुयादिति चेत्; तदेतदपि
बालप्रलापमनुसरति;--स हि विशेषो बुद्धिमता वक्तव्यो
यस्सामान्यपदार्थमात्रभावी सन्नसङ्करेण व्यवस्थामुपपादयेत्,
अयं चानेकसमवायः सङ्ख्यासंयोगादीनामवयविकार्यद्रव्या
दिष्वप्यस्तीति तान्यपि सङ्ख्यादिमतां सामान्यानि स्युः ॥
अथ मन्येथाः;--सत्यप्यनेकार्थसमवाये यदेव समानज्ञाना
भिधानप्रवृत्तिनिमित्तं तदेव सामान्यं नान्यदिति । समा
नानां भावः सामान्यं 6भवतोऽस्मादभिधानप्रत्ययाविति भावः ॥
यदाह अक्षपादः7;--समानज्ञानाभिधानप्रसवात्मिका जातिः
इति । एतदपि स्वप्रक्रियामात्रपरिदीपनम्8 । तथा हि--अत्र

  1. व्यक्तिरूपस्य.

  2. हेतुः सामान्येऽपि सद्भावादनैकान्तिकः.

  3. अर्थान्तरत्वादिसमर्थो भवेत्.

  4. प्रथमपुरुषद्विवचनान्तप्रयोगोऽयम्.

  5. योऽर्थोऽनेकत्रप्रत्ययानुवृत्तिनिमित्तं तत्सामान्यम् इति वात्स्यायनभाष्यं तद्वार्तिकं तट्टीकां च पर्यालोच्य नैयायिकाभिप्रायपूरणेनानुवदति;--समानज्ञानाभिधानप्रसवात्मिका जातिः । इति Cf. Nyāyasūtra, II, 2-70 समानप्रसवात्मिका जातिः.

  6. प्रकाशनम्.