1

॥ अवयविनिराकरणम् ॥


78b

॥ नमो लोकनाथाय1


अभ्यासातिशयस्तथा न विहितस्तादृक् श्रुतं नार्जितं

तन्मे चापलमर्थलेशमधुना निर्मातुमीहे यदि ।

एतत् सर्वमवेक्ष्य यन्निगदितं तत् पण्डितैर्दृश्यतां

प्रीणन्त्येव विचेष्टितानि2 हि शिशोः प्रायः पितॄणां मनः ॥

यो विरुद्धधर्माध्यासवान् नासावेकः । यथा घटादिरर्थः । विरुद्धधर्मा
ध्यासवांश्च स्थूलो नीलादिरर्थ इति व्यापकविरुद्धोपलब्धिः । इह3 दृश्य
मानः स्थूलो नीलादिरर्थो धर्मी । स चानुभवावसितोऽसति बाधके प्रत्यक्ष
सिद्धो हेतोराश्रयासिद्धिं निहन्ति ।


ननु भवद्भिरसन्नेवावयवी प्रतिज्न्ँआयते, स कथं प्रत्यक्षसिद्धः ? नावय
विनमिह धर्मिणं प्रतिपन्नाः स्मः, किं तु प्रतिभासमानं स्थूलनीलादिक
मर्थम् । न तर्हि विरुद्धधर्मसंसर्गादवयविन एकत्वं प्रतिषिद्धं4 स्यात् ।


यद्येवं कस्तर्हि भवतोऽवयवी ? एकोऽनेकावयवसमवेतोऽर्थ इति
चेत् ? स किं प्रतिभासमानात् स्थूलनीलादेरन्योऽनन्यो वा ? न तावदन्यः,
दृश्यत्वेनाभ्युपगमात् । न च प्रतिभासमानस्थूलनीलार्थव्यतिरेकेणापरः
प्रतिभाति । अनन्यश्चेत् ? तस्यैकत्वप्रतिक्षेपे कथमप्रतिषिद्धमेकत्वमव
यविनः ?


ननु च प्रतिभासमानश्चेदर्थो नावयविरूपो धर्मी, किं तर्हि रूपमस्या
विशिष्टं प्रसिद्धं5 भविष्यतीति ? उच्यते । प्रतिभासमानः स्थूलो नीलाकारः
प्रत्यक्षसिद्धं रूपम् अवयवित्वानभ्युपगमेऽप्यवशिष्यते । न चैवं मन्तव्यम् ।
न परमाणुसंचयवादिनां स्थूलाकारः कश्चिदर्थोऽस्ति, यः प्रसिद्धो धर्मी
स्यादिति । अवयव्यनभ्युपगमेऽपि हि निरवयवानेकात्मकः स्थूलोऽर्थोऽभ्युपगम्य
मानः केन निषिद्धः ?


  1. नमः समन्तभद्राय S

  2. चेष्टितानि S

  3. °मानस्थूलो S

  4. निषिद्धं S

  5. °स्यावशिष्टप्रसिद्धं S