203-b
वान्तिं कृत्वाम्लापित्ते तु विरेकं मृदु कारयेत् ।
सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम् ॥ १ ॥
आस्थापनं चिरोद्भूते देयं दोषाद्यपेक्षया ।
क्रिया शुद्धस्य शमनी ह्यनुबन्धव्यपेक्षया ॥ २ ॥
दोषसंसर्गजे कार्या भेषजाहारकल्पना ।
ऊर्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत् ।
तिक्तभूयिष्ठमाहारं पानं वापि प्रकल्पयेत् ॥ ३ ॥
यवगोधूमविकृतींस्तीक्ष्णसंस्कारवर्जिताः ।
यथास्वं लाजशक्तून्वा सितामधुयुतान्पिबेत् ॥ ४ ॥
निस्तुषयववृषधात्री
क्वाथस्त्रिसुगन्धिमधुयुतः पीतः ।
अपनयति चाम्लपित्तं
यदि भुङ्क्ते मुद्गयूषेण ॥ ५ ॥
कफपित्तवमीकण्डूज्वरविस्फोटदाहहा ।
पाचनो दीपनः क्वाथः शृङ्कवेरपटोलयोः ॥ ६ ॥
पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत् ।
कण्डुपामार्तिशूलघ्नं कफपित्ताग्निमान्द्यजित् ॥ ७ ॥
पटोलविश्वामृतरोहिणीकृतं
जलं पिबेत्पित्तकफोच्छ्रये तु ।
शूलभ्रमारोचकवह्निमान्द्य-
दाहज्वरच्छर्दिनिवारणं तत् ॥ ८ ॥
यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत् ।
नाशयेदम्लपित्तं च अरुचिं च वमिं तथा ॥ ९ ॥