209-a
पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः ।
समूर्वा रोहिणी पाठा रजनी सदुरालभा ॥ २२ ॥
कषायं पाययेदेतच्छ्लेष्मपित्तज्वरापहम् ।
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम् ॥ २३ ॥
भूनिम्बवासाकटुकापटोल-
फलत्रिकाचन्दननिम्बसिद्धः ।
विसर्पदाहज्वरवस्त्रशोष-
विस्फोटतृष्णावमिनुत्कषायः ॥ २४ ॥
सकफे पित्तयुक्ते तु त्रिफलां योजयेत्पुरैः ॥ २५ ॥
दुरालभां पर्पटकं पटोलं कटुकां तथा ।
सोष्णं गुग्गुलुसंमिश्रं पिबेद्वा खदिराष्टकम् ॥ २६ ॥
कुण्डलीपिचुमर्दाम्बु खदिरेन्द्रयवाम्बु वा ।
विस्फोटं नाशयत्याशु वायुर्जलधरानिव ॥ २७ ॥
चन्दनं नागपुष्पं च तण्डुलीयकशारिवे ।
शिरीषवल्कलं जातीलेपः स्याद्दाहनाशनः ॥ २८ ॥
शुकतरुनतमांसी रजनी पद्मा च तुल्यानि ।
पिष्टानि शीततोयेन लेपः स्यात्सर्वविस्फोटे ॥ २९ ॥
शिरीषमूलमञ्जिष्ठाचव्यामलकयष्टिकाः ।
सजातीपल्लवक्षौद्रा विस्फोटे कवलग्रहाः ॥ ३० ॥
शिरीषोदुम्बरौ जम्बु सेकालेपनयोर्हिताः ।
श्लेष्मातकत्वचो वापि प्रलेपाश्च्योतने हिताः ॥ ३१ ॥
शिरीषयष्टीनतचन्दनैल-
मांसीहरिद्राद्वयकुष्टबालैः ।
लेपो दशाङ्गः सघृतः प्रदिष्टो
विसर्पकण्डूज्वरशोथहारी ॥ ३२ ॥
शिरीषोशीरनागाह्वहिंस्राभिर्लेपनाद्द्रुतम् ।
विसर्पविषविस्फोटाः प्रशाम्यन्ति न संशयः ॥ ३३ ॥