222-a
रजनीमार्कवमूलं पिष्टं शीतेन वारिणा तुल्यम् ।
हन्ति विसर्पं लेपाद्वराहदशनाह्वयं घोरम् ॥ १३२ ॥
नागकेशरचूर्णं वा शतधौतेन सर्पिषा ।
पिष्ट्वा लेपो विधातव्यो दाहे हर्षे च पादयोः ॥ १३३ ॥

Adhikāra 55

ओष्ठप्रकोपे वातोत्थे शाल्वनेनोपनाहनम् ।
मस्तिष्के चैव नस्ये च तैलं वातहरैः शृतम् ।
स्वेदोऽभ्यङ्गः स्नेहपानं रसायनमिहेष्यते ॥ १ ॥
श्रीवेष्टकं सर्जरसं गुग्गुलुं सुरदारु च ।
यष्टिमधुकचूर्णं च विदध्यात्प्रतिसारणम् ॥ २ ॥
वेधं शिराणां वमनं विरेकं
तिक्तस्य पानं रसभोजनं च ।
शीतान्प्रलेपान्परिषेचनं च
पित्तोपसृष्टेष्वधरेषु कुर्यात् ॥ ३ ॥
पित्तरक्ताभिघातोत्थाञ्जलौकाभिरुपाचरेत् ।
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ॥ ४ ॥