234-a
११कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ।
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ॥ ५१ ॥
१२विद्रधौ चापि कुर्वीत विद्रध्युक्तं हि भेषजम्
शतावरीवाजिगन्धापयस्यैरण्डबीजकैः ॥ ५२ ॥
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ।
गुञ्जाचूर्णयुते जाते माहिषे क्षीर उद्गतम् ॥ ५३ ॥
नवनीतं तदभ्यङ्गात्कर्णपालिविवर्धनम् ।
विषगर्भं तिक्ततुम्बीतैलमष्टगुणे खरात् ॥ ५४ ॥
मूत्रे पक्वं तदभ्यङ्गात्कर्णपालिविवर्धनम् ।
कल्केन जीवनीयेन तैलं पयसि साधितम् ॥ ५५ ॥
आनूपमांसक्वाथेन पालीपोषणवर्धनम् ।
माहिषनवनीतयुतं सप्ताहं धान्यराशिपरिवसितं ॥ ५६ ॥
नवमुसलिकन्दचूर्णमृद्धिकरं कर्णपालीनाम् ।
कर्णस्य दुर्व्यधे भूते संरम्भो वेदना भवेत् ॥ ५७ ॥
तत्र दुर्व्यधरोहार्थं लेपो मध्वाज्यसंयुतैः ।
मधूकयवमञ्जिष्ठारुबुमूलैः समन्ततः ॥ ५८ ॥
अनेकधातुच्छिन्नस्य सन्धिः कर्णस्य वै भिषक् ।
यो यथाभिनिविष्टः स्यात्तं तथा विनियोजयेत् ॥ ५९ ॥
धान्याम्लोष्णोदकाभ्यां तु सेको वातेन दूषिते ।
रक्तपित्तेन पयसा श्लेष्मणा तूष्णवारिणा ॥ ६० ॥
ततः सीव्य स्थिरं कुर्यात्सन्धिं बन्धेन वा पुनः ।
मध्वाज्येन ततोऽभ्यज्य पिचुना सन्धिवेष्टकम् ।
कपालचूर्णेन ततश्चूर्णयेत्पथ्ययाथवा ॥ ६१ ॥

Adhikāra 57