281-a
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपाद्यपि ।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ २९ ॥
वचा हिङ्गु विडङ्गानि सैन्धवं गजपिप्पली ।
पाठाप्रतिविषा व्योषं काश्यपेन विनिर्मितम् ॥ ३० ॥
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ।
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम् ॥ ३१ ॥
पृक्काप्लवस्थौणेय-
काक्षी शैलेयरोचनातगरम् ।
ध्यामकं कुङ्कुमं मांसी
सुरसाग्रैलालकुष्ठघ्नम् ॥ ३२ ॥
बृहतीशिरीषपुष्प-
श्रीवेष्टकपद्मचारटिविशालाः ।
सुरदारुपद्मकेशर-
शारवकमनःशिलाकौन्त्यः ॥ ३३ ॥
जात्यर्कपुष्पसर्षप-
रजनीद्वयहिङ्गुपिप्पलीद्राक्षाः ।
जलमुद्गपर्णीमधुक-
मदनकमथसिन्धुवाराश्च ॥ ३४ ॥
सम्पाकलोध्रमयूरकगन्धफलीलाङ्गलीविडङ्गाः ।
पुष्ये समुद्धृत्य समं पिष्टा गुडिका विधेया स्युः
सर्वविषघ्नो जयकृ-
द्विषमृतसञ्जीवनो ज्वरनिहन्ता ॥ ३५ ॥