282-a
पूर्वे वयसि मध्ये वा शुद्धदेहः समाचरेत् ॥ १ ॥
नाविशुद्धशरीरस्य युक्तो रसायनो विधिः ।
नाभाति वाससि म्लिष्टे रङ्गयोग इवार्पितः ॥ २ ॥
गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा ।
द्वे द्वे खादन्सदा पथ्ये जीवेद्वर्षशतं सुखी ॥ ३ ॥
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडः क्रमात् ।
वर्षादिष्वभया सेव्या रसायनगुणैषिणा ॥ ४ ॥
त्रैफलेनायसीं पत्रीं कल्केनालेपयेन्नवाम् ।
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम् ॥ ५ ॥
प्रभूतस्नेहमशनं जीर्णे तस्मिन्प्रयोजयेत् ।
अजरोऽरुकसाभ्यासाज्जीवेच्चापि समाः शतम् ॥ ६ ॥
पञ्चाष्टौ सप्तदश वा पिप्पलीः क्षौद्रसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥ ७ ॥
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥ ८ ॥
प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा ।
जेतुं कासं क्षयं श्वासं शोषं हिक्कां गलामयम् ॥ ९ ॥
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् ।
वैस्वर्यं पीनसं शोषं गुल्मं वातवलासकम् ॥ १० ॥
जरणान्तेऽभयामेकां प्राग्भक्ते द्वे बिभीतके ।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ॥ ११ ॥