305-a
फलिनीवल्कलमुष्णं हरति गरं पित्तकफजं च ।
क्षौद्रलीढं ताम्ररजो वमनं गरदोषनुत् ॥ ८ ॥
आटरूषं वचा निम्बं पटोलं फलिनीत्वचम् ।
क्वाथयित्वा पिबेत्तोयं वान्तिकृन्मदनान्वितम् ॥ ९ ॥
क्वाथ्यद्रव्यस्य कुडवं स्थापयित्वा जलाढके ।
चतुर्भागावशिष्टं तु वमनेष्ववचारयेत् ॥ १० ॥
निम्बकषायोपेतं फलिनीगदमदनमधुकसिन्धूत्थं ।
मधुयुतमेतद्वमनं कफतः पूर्णाशये सदा शस्तम् ॥ ११ ॥
फलजीमूतकेक्ष्वाकुकुटजाः कृतवेधनः ।
धामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी ॥ १२ ॥
क्रमात्कफः पित्तमथानिलश्च
यस्येति सम्यग्वमितः स इष्टः ।
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ
तनोर्लघुत्वेऽपि च लक्ष्यमाणे ॥ १३ ॥
दुच्छर्दिते स्फोटककोठकण्डू-
कृत्स्वाविशुद्धिर्गुरुगात्रता च ।
तृण्मोहमूर्च्छानिलकोपनिद्रा-
बलातिहानिर्वमितेऽतिविद्यात् ॥ १४ ॥
ततः सायं प्रभाते वा क्षुद्वान्पेयादिकं भजेत् ॥ १५ ॥
पेयां विलेपीमकृतं कृतं च
यूषं रसं द्विस्त्रिरथैकशश्च ।
क्रमेण सेवेत विशुद्धकायः
प्रधानमध्यावरशुद्धिशुद्धः ॥ १६ ॥