313-b
सर्वार्थकारी शिशुवृद्धयूनां
निरत्ययः सर्वगदापहश्च ॥ ३८ ॥

Adhikāra 73

प्रतिमर्शोऽवपीडश्च नस्यं प्रधमनं तथा ।
शिरोविरेचनं चेति नस्तः कर्म च पञ्चधा ॥ १ ॥
ईषदुच्छिङ्घनात्स्नेहो यावान्वक्त्रं प्रपद्यते ।
नस्तो निषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः ॥ २ ॥
प्रतिमर्शस्तु नस्यार्थं करोति न च दोषवान् ।
नस्तः स्नेहाङ्गुलिं दद्यात्प्रातर्निशि च सर्वदा ॥ ३ ॥
न चेच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत् ।
निशाहर्भुक्तवन्तोहःस्वप्नाध्वश्रमरेतसाम् ॥ ४ ॥
शिरोभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम् ।
दन्तकाष्ठस्य हास्यस्य योज्योऽन्तेऽसौ द्विबिन्दुकः ॥ ५ ॥
शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ।
अवपड्यि दीयते यस्मादवपीडस्ततस्तु सः ॥ ६ ॥
स्नेहार्थं शून्यशिरसां ग्रीवास्कन्धोरसां तथा ।
बलार्थं दीयते स्नेहो नस्तः शब्दोऽत्र वर्तते ॥ ७ ॥
नस्यस्य स्नैहिकस्याथ देयास्त्वष्टौ तु बिन्दवः ।
प्रत्येकशो नस्तकयोर्नृणामिति विनिश्चयः ॥ ८ ॥