51-b
कुष्ठसैन्धवयोः कल्कं चुक्रतैलसमन्वितम् ।
विषूच्यां मर्दनं कोष्णं खल्लीशूलनिवारणम् ॥ ८३ ॥
करञ्जनिम्बशिखरीगुडूच्यर्जकवत्सकैः ।
पीतः कषायो वसनाद्धोरांहन्ति विषूचिकाम् ॥ ८४ ॥
व्योषं करञ्जस्य फलं हरिद्रां
मूलं समायाप्य च मातुलुङ्ग्याः ।
छायाविशुष्का गुडिकाः कृतास्ता
हन्युर्विषूचीं नयनाञ्जनेन ॥ ८५ ॥
गुडपुष्पसारशिखरी-
तण्डुलगिरिकर्णिकाहरिद्राभिः ।
अञ्जनगुडिका विलयति
विषूचिकां त्रिकटुसनाथा ॥ ८६ ॥
त्वक्पत्ररास्नागुरुशिग्रुकुष्ठै-
रम्लेन पिष्टैः सवचाशताह्वैः ।
उद्वर्तनं यद्धि विषूचिकाघ्नं
तैलं विपक्वं च तदर्थकारि ॥ ८७ ॥
१८पिपासायामनुत्क्लेशे लवङ्गस्याम्बु शस्यते ।
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥ ८८ ॥
विषूच्यामतिवृद्धायां पाण्योर्दाहः प्रशस्यते ।
वमनं त्वलसे पूर्वं लवणेनोष्णवारिणा ॥ ८९ ॥