77-b
चव्याम्लवेतसकटुत्रिकतिन्तिडीक-
तालीसजीरकतुगादहनैः समांशैः ।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं
वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ ६ ॥
तैलाक्तं स्वरभेदे वा खदिरं धारयेन्मुखे ।
पथ्यां पिप्पलियुक्तां वा संयुक्तां नागरेण वा ॥ ७ ॥
अजमोदां निशां धात्रीं क्षारं वह्निं विचूर्ण्य च ।
मधुसर्पिर्युतं लीढ्वा स्वरभेदं व्यपोहति ॥ ८ ॥
कलितरुफलसिन्धुकणा
चूर्णं तक्रेण लीढमपहरति ।
स्वरभेदं गोपयसा
पीतं वामलकचूर्णं च ॥ ९ ॥
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ।
स्वरोपघाते कासे च लेहमेनं प्रयोजयेत् ॥ १० ॥
शर्करामधुमिश्राणि शृतानि मधुरैः सह ।
पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ॥ ११ ॥
व्याघ्रीस्वरसविपक्वं
रास्नावाट्यालगोक्षुरव्योषैः
सर्पिः स्वरोपघातं
हन्यात्कासं च पञ्चविधम् ॥ १२ ॥