78-b
कुष्ठसौवर्चलाजाजी शर्करामरिचं बिडम् ।
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम् ॥ ५ ॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम् ।
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः ॥ ६ ॥
सतैलमाक्षिकाश्चैते चत्वारः कुडवग्रहाः ।
चतुरोऽरोचकान्हन्युर्वाताद्यैकजसर्वजान् ॥ ७ ॥
त्वङ्मुस्तमेलाधान्यानि मुस्तमामलकानि च ।
त्वक्च दार्वी यमान्यश्च पिप्पल्यस्तेजवत्यपि ॥ ८ ॥
यमानी तिन्तिडीकं च पञ्चैते मुखशोधनाः ।
श्लोकपादैरभिहिताः सर्वारोचकनाशनाः ॥ ९ ॥
अम्लिका गुडतोयं च त्वगेलामरिचान्वितम् ।
अभक्तच्छन्दरोगेषु शस्तं कुडवधारणम् ॥ १० ॥
कारव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम् ।
सौवर्चलं गुडं क्षौद्रं सर्वारोचकनाशनम् ॥ ११ ॥
त्रीण्यूषणानि त्रिफला रजनीद्वयं च
चूर्णीकृतानि यबशूकविमिश्रितानि ।
क्षौद्रान्वितानि वितरेन्मुखधारणार्थ-
मन्यानि तिक्तकटुकानि च भेषजानि ॥ १२ ॥
विट्चूर्णमधुसंयुक्तो रसो दाडिमसम्भवः ।
असाध्यामपि संहन्यादरुचिं वक्त्रधारितः ॥ १३ ॥