84-b
सप्ताहात्पथ्यभोजी
मदमूर्च्छाकासकामलोन्मादान् ॥ ९ ॥
अञ्जनान्यवपीडाश्च धूमः प्रधमनानि च ।
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ॥ १० ॥
लुञ्चनं केशरोम्णां च दन्तैर्दंशनमेव च ।
आत्मगुप्तावघर्षश्च हितास्तस्यावरोधने ॥ ११ ॥

Adhikāra 18

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः ।
परूषकैः सामलकैर्युक्तो मद्यविकारणुत् ॥ १ ॥
जले चतुष्पले शीते क्षुण्णद्रव्यपलं क्षिपेत् ।
मृत्पात्रे मर्दयेत्सम्यक्तस्माच्च द्विपलं पिबेत् ॥ २ ॥
सतीलमुद्गमिश्रान्वा दाडिमामलकान्वितान् ।
द्राक्षामलकखर्जूरपरूषकरसेन वा ।
कल्पयेत्तर्पणान्यूषान्रसांश्च विबिधात्मकान् ॥ ३ ॥