85-a
मद्यं सौवर्चलव्योषयुक्तं किञ्चिज्जलान्वितम्
जीर्णमद्याय दातव्यं वातपानात्ययापहम् ॥ ४ ॥
मुद्गयूषः सितायुक्तः स्वादुर्वापैशितो रसः ।
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः ॥ ५ ॥
पानात्यये कफोद्भूते लङ्घनं च यथाबलम् ।
दीपनीयौषधोपेतं पिबेन्मद्यं समाहितः ॥ ६ ॥
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सितम् ।
आभिः क्रियाभिर्मिश्राभिः शान्तिं याति मदात्ययः ॥ ७ ॥
न चेन्मद्यक्रमं मुक्त्वा क्षीरमस्य प्रयोजयेत् ।
लङ्घनाद्यैः कफे क्षीणे जातदौर्बल्यलाघवे ॥ ८ ॥
ओजस्तुल्यगुणं क्षीरं विपरीतं च मद्यतः ।
क्षीरप्रयोगं मद्यं वा क्रमेणाल्पाल्पमाचरेत् ॥ ९ ॥
पयः पुनर्नवाक्वाथयष्टीकल्कप्रसाधितम् ।
घृतं पुष्टिकरं पानान्मद्यपानहतौजसः ॥ १० ॥
सौवर्चलमजाज्यं च वृक्षाम्लं साम्लवेतसम् ।
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ॥ ११ ॥