116-b
लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च ।
विरेचनं स्नेहपानं वस्तयश्चाममारुते ॥ १ ॥
सैन्धवाद्ये नानुवास्य क्षारबस्तिः प्रशस्यते ।
आमवाते पञ्चकोलसिद्धं पानान्नमिष्यते ॥ २ ॥
रुक्षः स्वेदो विधातव्यो वालुकापुटकैस्तथा ।
शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषामृता ॥ ३ ॥
कषायमामवातस्य पाचनं रूक्षभोजनम् ।
शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम् ॥ ४ ॥
सप्तरात्रं पिबेज्जन्तुरामवातविपाचनम् ।
दशमूलामृतैरण्डरास्नानागरदारुभिः ।
क्वाथो रुबूकतैलेन सामं हन्त्यनिलं गुरुम् ॥ ५ ॥
दशमूलीकषायेण पिबेद्वा नागराम्भसा ।
कुक्षिबस्तिकटीशूले तैलमेरण्डसम्भवम् ॥ ६ ॥
रास्नां गुडूचीमेरण्डं देवदारुमहौषधम् ।
पिवेत्सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे ॥ ७ ॥