121-b
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः ।
क्षारचूर्णानि गुडिकाः शस्यन्ते शूलशान्तये ॥ १ ॥
पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः ।
पायसैः कृशरैः पिष्टैः स्निग्धैर्वापि सितोत्करैः ॥ २ ॥
वातात्मकं हन्त्यचिरेण शूलं
स्नेहेन युक्तस्तु कुलत्थयूषः ।
ससैन्धवो व्योषयुतः सलावः
सहिङ्गुसौवर्चलदाडिमाढ्यः ॥ ३ ॥
बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ।
सहिङ्गु लवणं पीतं सद्यो वातरुजापहम् ॥ ४ ॥
शूली विबन्धकोष्ठोऽद्भिरुष्णाभिश्चूर्णिताः पिबेत् ।
हिङ्गुप्रतिविषाव्योषवचासौवर्चलाभयाः ॥ ५ ॥
तुम्बुरूण्यभयाहिङ्गुपौष्करं लवणत्रयम् ।
पिबेद्यवाम्बुना वातशूलगुल्मापतन्द्रकी ॥ ६ ॥
श्यामा बिडं शिग्रुफलानि पथ्या-
विडङ्गकम्पिल्लकमश्वमूत्री ।
कल्कं समं मद्ययुतं च पीत्वा
शूलं निहन्यादनिलात्मकं तु ॥ ७ ॥