132-a
हिङ्गुकुष्ठबचासर्जिबिडं चेति द्विरुत्तरम् ।
पीतं मद्येन तच्चूर्णमुदावर्तहरं परम् ॥ ८ ॥
खण्डपलं त्रिवृता सम-
मुपकुल्याकर्षचूर्णितं श्लक्ष्णम् ।
प्राग्भोजने च समधु
बिडालपदकं लिहेत्प्राज्ञः ॥ ९ ॥
एतद्गाढपुरीषे
पित्ते सकफे च विनियोज्यम् ।
स्वादुर्नृपयोग्योऽयं
चूर्णो नाराचको नाम्ना ॥ १० ॥
रसोनं मद्यसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः ।
गुल्मोदावर्तशूलघ्नं दीपनं बलवर्धनम् ॥ ११ ॥