131-b
त्रिवृत्सुधापत्रतिलादिशाक-
ग्राम्यौदकानूपरसैर्यवान्नम् ।
अन्यैश्च मृष्टानिलमूत्रविड्भि-
रद्यात्प्रसन्नागुडसीधुपायी ॥ १ ॥
आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते ।
पुरीषजे तु कर्तव्यो विधिरानाहिकश्च यः ॥ २ ॥
क्षारवैतरणौ बस्ती युञ्ज्यात्तत्र चिकित्सकः ।
श्यामादन्तीद्रवन्तीत्वङ्महाश्यामास्नुहीत्रिवृत् ॥ ३ ॥
सप्तला शङ्खिनी श्वेता राजवृक्षः सतिल्वकः ।
कम्पिल्लकं करञ्जश्च हेमक्षीरीत्ययं गणः ॥ ४ ॥
सर्पिस्तैलरजःक्वाथकल्केष्वन्यतमेषु च ।
उदावर्तोदरानाहविषगुल्मविनाशनः ॥ ५ ॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः ।
गुडिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ ६ ॥
हरीतकीयवक्षारपीलूनि त्रिवृता तथा ।
घृतैश्चूर्णमिदं पेयमुदावर्तविनाशनम् ॥ ७ ॥