153-b
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ।
प्रमेहान्मूत्रघातांश्च बालरोगोदरं जयेत् ॥ ३८ ॥
शालसारादितोयेन भावितं यच्छिलाजतु ।
पिबेत्तेनैव संशुद्धदेहः पिष्टं यथाबलम् ॥ ३९ ॥
जाङ्गलानां रसैः सार्धं तस्मिञ्जीर्णे च भोजनम् ।
कुर्यादेवं तुलां यावदुपयुञ्जीत मानवः ॥ ४० ॥
मधुमेहं विहायासौ शर्करामश्मरीं तथा ।
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः ॥ ४१ ॥
१०विडङ्गत्रिफलामुस्तैः कणया नागरेण च ।
जीरकाभ्यां युतो हन्ति प्रमेहानतिदुस्तरान् ।
लौहो मूत्रविकारांश्च सर्वमेव न संशयः ॥ ४२ ॥
११माक्षिकं धातुमप्येवं युञ्ज्यात्तस्याप्ययं गुणः ।
शालसारादिवर्गस्य क्वाथे तु घनतां गते ॥ ४३ ॥
दन्तीलोध्रशिवाकान्तलौहताम्ररजः क्षिपेत् ।
घनीभूतमदग्धं च प्राश्य मेहान्व्यपोहति ॥ ४४ ॥
व्यायामजातमखिलं भजन्मेहान्व्यपोहति ।
पादत्रच्छत्ररहितो भैक्षाशी मुनिवद्यतः ॥ ४५ ॥
योजनानां शतं गच्छेदधिकं वा निरन्तरम् ।
मेहाञ्जेतुं बलेनापि नीवारामलकाशनः ॥ ४६ ॥