161-b
तिलान्सलवणांश्चैव घृतं षट्पलकं तथा ॥ ८ ॥
प्लीहोद्दिष्टां क्रियां सर्वां यकृतः संप्रयोजयेत् ।
लशुनं पिप्पलीमूलमभयां चैव भक्षयेत् ॥ ९ ॥
पिबेद्गोमूत्रगण्डूषं प्लीहरोगविमुक्तये ।
प्लीहजिच्छरपुङ्खायाः कल्कस्तक्रेण सेवितः ।
शरपुङ्खैव संचर्व्य जग्ध्वा पेयाभयाथवा ॥ १० ॥
शर्दिष्ठानिर्यूहः ससैन्धवस्तिन्तिडीकसंमिश्रः ।
प्लीहव्युपरम योगः पक्वाम्ररसोऽथवा समधुः ॥ ११ ॥
दध्ना भुक्तवतो वामबाहुमध्ये शिरां भिषक् ।
विध्येत्प्लीहविनाशाय यकृन्नाशाय दक्षिणे ॥ १२ ॥
प्लीहानं मर्दयेद्गाढं दुष्टरक्तप्रवृत्तये ।