162-a
माणमार्गामृतावासास्थिराचित्रकसैन्धवम् ॥ १३ ॥
नागरं तालगण्डं च प्रत्यग्रं तु त्रिकार्षिकम् ।
बिडसौवर्चलक्षारपिप्पल्यश्चापि कार्षिकाः ॥ १४ ॥
एतच्चूर्णीकृतं सर्वं गोमूत्रस्याढके पचेत् ।
सान्द्रीभूते गुडीं कुर्याद्दत्त्वा त्रिपलमाक्षिकम् ॥ १५ ॥
यकृत्प्लीहोदरहरो गुल्मार्शोग्रहणीहरः ।
योगः परिकरो नाम्ना चाग्निसन्दीपनः परः ॥ १६ ॥
रोहितकाभयाक्षोदभावितं मूत्रमम्बु वा ।
पीतं सर्वोदरप्लीहमेहार्शःक्रिमिगुल्मनुत् ॥ १७ ॥
पिप्पली नागरं दन्ती समांशं द्विगुणाभयम् ।
चूर्णं पीतं बिडार्धांशं प्लीहघ्नं ह्युष्णवारिणा ॥ १८ ॥
क्रमवृद्ध्या दशाहानि दशपिप्पलिकं दिनम् ।
वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः ॥ १९ ॥
जीर्णे जीर्णे च भुञ्जीत यष्टिकं क्षीरसर्पिषा ।