162-b
पिप्पलीनां प्रयोगोऽयं सहस्रस्य रसायनः ॥ २० ॥
दशपिप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः ।
यस्त्रिपिप्पलिपर्यन्तः प्रयोगः सोऽवरः स्मृतः ॥ २१ ॥
बृहणं वृष्यमायुष्यं प्लीहोदरविनाशनम् ।
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥ २२ ॥
पञ्चपिप्पलिकश्चापि दृश्यते वर्धमानकः ।
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः ।
शीतीकृता ह्रस्वबलैर्देहदोषामयान्प्रति ॥ २३ ॥
पिप्पलीचित्रकान्मूलं पिष्ट्वा सम्यग्विपाचयेत् ।
घृतं चतुर्गुणक्षीरं यकृत्प्लीहोदरापहम् ॥ २४ ॥
पिप्पलीकल्कसंयुक्तं घृतं क्षीरचतुर्गुणम् ।
पिबेत्प्लीहाग्निसादादियकृद्रोगहरं परम् ॥ २५ ॥
चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ।
आरणालं तद्द्विगुणं दधिमण्डं चतुर्गुणम् ॥ २६ ॥
पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ।
द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत् ॥ २७ ॥
प्लीहगुल्मोदराध्मानपाण्डुरोगारुचिज्वरान् ।
बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्तपीनसान् ॥ २८ ॥