164-b
आर्द्रकस्य रसः पीतः पुराणगुडमिश्रितः ।
अजाक्षीराशिनां शीघ्रं सर्वशोथहरो भवेत् ॥ ९ ॥
पुनर्नवादारुशुण्ठीक्वाथे मूत्रे च केवले ।
दशमूलरसे वापि गुग्गुलुः शोथनाशनः ॥ १० ॥
बिल्वपत्ररसं पूतं शोषणं श्वयथौ त्रिजे ।
विट्सङ्गे चैव दुर्नाम्नि विदध्यात्कामलास्वपि ॥ ११ ॥
गुडपिप्पलिशुण्ठीनां चूर्णं श्वयथुनाशनम् ।
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ॥ १२ ॥
पुरो मूत्रेण सेव्येत पिप्पली वा पयोऽन्विता ।
गुडेन वाभया तुल्या विश्वं वा शोथरोगिणाम् ॥ १३ ॥
गुडार्द्रकं वा गुडनागरं वा
गुडाभयं वा गुडपिप्पलीं वा ।
कर्षाभिवृद्ध्या त्रिपलप्रमाणं
खादेन्नरः पक्षमथापि मासम् ॥ १४ ॥
शोथप्रतिश्यायगलास्यरोगान्
सश्वासकासारुचिपीनसांश्च ।
जीर्णज्वरार्शोग्रहणीविकारान्
हन्यात्तथान्यान्कफवातरोगान् ॥ १५ ॥