169-a
गव्यं घृतं सैन्धवसंप्रयुक्तं
शम्बूकभाण्डे निहितं प्रयत्नात् ।
सप्ताहमादित्यकरैर्विपक्वं
निहन्ति कूरण्डमतिप्रवृद्धम् ॥ १७ ॥
ऐन्द्रीमूलभवं चूर्णं रुबुतैलेन मर्दितम् ।
त्र्यहाद्गोपयसा पीतं सर्ववृद्धिनिवारणम् ॥ १८ ॥
रुद्रजटामूललिप्ता करटव्यङ्कचर्मणा ।
बद्धा वृद्धिः शमं याति चिरजापि न संशयः ॥ १९ ॥
निष्पिष्टमारणालेन रूपिकामूलवल्कलम् ।
लेपो वृद्ध्यामयं हन्ति बद्धमूलमपि दृढम् ॥ २० ॥
वचासर्षपकल्केन प्रलेपो वृद्धिनाशनः ।
लज्जागृध्रमलाभ्यां च लेपो वृद्धिहरः परः ॥ २१ ॥