175-a
गन्धर्वतैलभृष्टां हरीतकीं गोजलेन यः पिबति ।
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण ॥ १३ ॥
धान्याम्लं तैलसंयुक्तं कफवातविनाशनम् ।
दीपनं चामदोषघ्नमेतच्छ्लीपदनाशनम् ॥ १४ ॥
गोधावतीमूलयुक्तां खादेन्माषेण्डरीं नरः ।
जयेच्छ्लीपदकोपोत्थं ज्वरं सद्यो न संशयः ॥ १५ ॥
श्लीपदघ्नो रसोऽभ्यासाद्गुडूच्यास्तैलसंयुतः ।
त्रिकटु त्रिफला चव्यं दार्वीवरुणगोक्षुरम् ॥ १६ ॥
अलम्बुषां गुडूचीं च समभागानि चूर्णयेत् ।
सर्वेषां चूर्णमाहृत्य वृद्धदारस्य तत्समम् ॥ १७ ॥
काञ्जिकेन च तत्पेयमक्षमात्रं प्रमाणतः ।
जीर्णे चापरिहारं स्याद्भोजनं सर्वकामिकम् ॥ १८ ॥
नाशयेच्छ्लीपदं स्थौल्यमामवातं सुदारुणम् ।
गुल्मकुष्ठानिलहरं वातश्लेष्मज्वरापहम् ॥ १९ ॥
पिप्पलीत्रिफलादारुनागरं सपुनर्नवम् ।
भागैर्द्विपलिकैरेषां तत्समं वृद्धदारकम् ॥ २० ॥
काञ्जिकेन पिबेच्चूर्णं कर्षमात्रं प्रमाणतः ।
जीर्णे चापरिहारं स्याद्भोजनं सर्वकामिकम् ॥ २१ ॥