175-b
श्लीपदं वातरोगांश्च हन्यात्प्लीहानमेव च ।
अग्निं च कुरुते घोरं भस्मकं च नियच्छति ॥ २२ ॥
कृष्णाचित्रकदन्तीनां कर्षमर्धपलं परम् ।
विंशतिश्च हरीतक्यो गुडस्य तु पलं द्वयम् ।
मधुना मोदकं खादेच्छ्लीपदं हन्ति दुस्तरम् ॥ २३ ॥
सुरसां देवकाष्ठं च त्रिकटु त्रिफले तथा ।
लवणान्यथ सर्वाणि विडङ्गान्यथ चित्रकम् ॥ २४ ॥
चविका पिप्पलीमूलं गुग्गुलुर्हपुषा वचा ।
यवाग्रजं च पाठा च शट्येला वृद्धदारुकम् ॥ २५ ॥
कल्कैश्च कार्षिकैरेभिर्घृतप्रस्थं विपाचयेत् ।
दशमूलीकषायेण धान्ययूषद्रवेण च ॥ २६ ॥
दधिमण्डसमायुक्तं प्रस्थं प्रस्थं पृथक् पृथक् ।
पक्वं स्वादुघृतं कल्कात्पिबेत्कर्षत्रयं हविः ॥ २७ ॥
श्लीपदं कफवातोक्तं मांसरक्ताश्रितं च यत् ।
मेदश्रितं च पित्तोत्थं हन्यादेव न संशयः ॥ २८ ॥
अपचीं गण्डमालां च अन्त्रवृद्धिं तथार्बुदम् ।
नाशयेद्ग्रहणीदोषं श्वयथुं गुदजानि च ॥ २९ ॥
परमग्निकरं हृद्यं कोष्ठक्रिमिविनाशनम् ।
घृतं सौरेश्वरं नाम श्लीपदं हन्ति सेवितम् ।
जीवकेन कृतं ह्येतद्रोगानीकविनाशनम् ॥ ३० ॥