185-a
कुम्भीकखर्जूरकरित्थबिल्व-
वनस्पतीनां तु शलाटुवर्गे ।
कृत्वा कषायं विपचेत्तु तैल-
मावाप्य मुस्तं सरलं प्रियङ्गुम् ॥ १६ ॥
सौगन्धिकामोचरसाहिपुष्प-
लोध्राणि दत्वा खलु धातकीं च ।
एतेन शल्यप्रभवा हि नाडी
रोहेद्व्रणो वै मुखमाशु चैव ॥ १७ ॥
भल्लातकार्कमरिचैर्लवणोत्तमेन
सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ।
स्यान्मार्कवस्य च रसेन निहन्ति तैलं
नाडीं कफानिलकृतामपचीं व्रणांश्च ॥ १८ ॥
समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु ।
तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम् ॥ १९ ॥
हितं पामापचीनां तु पानाभ्यञ्जननावनैः ।
विविधेषु च स्फोटेषु तथा सर्वव्रणेषु च ॥ २० ॥