अथालस्यम्—

आलस्यं श्रमगर्भादेर्जैह्म्यजृम्भासितादिमत् ॥ २७ ॥

यथा ममैव—

चलति कथंचित् पृष्टा यच्छति वचनं कथंचिदालीनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥