अथ वितर्कः—

तर्को विचारः संदेहाद् भूशिरोऽङ्गुलिनर्तकः ।

193 यथा—

किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं सद्यः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु- र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥

अथवा—

कः समुचिताभिषेकादार्यं प्रच्यावयेद् गुणज्येष्ठम् ।
मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना ॥