अथ चापलम्—

मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ३३ ॥

यथा 897विकटनितम्बायाः—

अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥

यथा वा—

विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराणि ।
196
अहमहमिकया पतन्तु कोपात् सममधुनैव किमत्र मन्मुखानि ॥

अथवा प्रस्तुतमेव तावत् सुविहितं करिष्ये ।

इति ।

अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथग्वाच्याः ।

नन्वन्येऽपि सन्ति चित्तवृत्तिविशेषा इति तेऽपि वाच्याः । तत्राह अन्ये चेति ।

  1. Vikaṭanitambāyāḥ is missing in A.T.A.