किमर्थं तर्ह्युपादीयन्त इति चेदुच्यते—

क्रीडतां मृण्मयैर्यद्वद् बालानां द्विरदादिभिः ॥ ४१ ॥
स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः ।

एतदुक्तं भवति । नात्र लौकिकशृङ्गारादिवत् स्व्यादिविभावादीनामुपयोगः । किं तर्हि ? प्रतिपादितप्रकारेण उपयोगः । लौकिकरसविलक्षणत्वात्1048 नाट्यरसानाम् । यदाह—अष्टौ नाट्यरसाः स्मृताः इति ।1049

शङ्कते किमर्थमिति । यदि सीतादीनां विशिष्टे रूपे नापेक्षा किमर्थं तर्हि तेन रूपेण युक्ताः सीतादय उपादीयन्त इति । उत्तरम् उच्यत इति । यदि सीतादीनां स्वरूपेण नोपयोगः कथं तदाश्रयो रसो भवेत् । न ह्यसत्यपि1050 सीतादौ तदाश्रयः शृङ्गारादिर्दृष्ट इति मन्वानं प्रत्याह एतदुक्तं भवतीति । अष्टाविति । यदि लौकिकप्रकारमेवात्रापि रसं मन्यते तर्हि अष्टाविति न वदेत् । षट्‏संख्याकत्वाल्लौकिकरसानामित्यर्थः ।

  1. N.S.P. -vilakṣaṇatvaṃ nāṭyarasānām.

  2. ना॰ शा॰ [GOS] ६।१५
  3. Gr.MS. reads na hi saty api. Tri.MS. reads nahy asya saty api and M.G.T. nahy asaty api.