231
उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥1098

साध्वसं यथा कुमारसंभवे— 1099

तं वीक्ष्य वेपथुमती सरसाङ्ग्यष्टिर्निक्षेपणाय पदमुद्धतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥1100

यथा वा—

व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥1101

दशावस्थ इति । ता एवावस्थाः कथयति अभिलाष इत्यादिना । तत्राभिलाषं विवृणोति अभिलाष इति । तत्रापीति । दर्शनश्रवणाभ्यामुत्पन्नेऽप्यभिलाष इत्यर्थः । दर्शनं विवृणोति साक्षादिति । साक्षाद् दर्शनं, प्रतिकृतौ दर्शनं, स्वप्ने दर्शनं, मायादर्शनमिति दर्शनभेदा इत्यर्थः । श्रुतिभेदं व्युत्पादयति श्रुतिरिति । कमपि व्याजमवलम्ब्य कृते सखीगीते मागधादिभिः कृतायां गुणस्तुतौ च श्रुतिर्द्रष्टव्येत्यर्थः । तत्राभिलाषोत्पत्तिमुदाहरति असंशयमिति । विस्मयमुदाहरति स्तनावालोक्येति । आनन्दमुदाहरति उपप्राकाराग्रमिति साध्वसमुदाहरति तं वीक्ष्येति ।

सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः ।

गुणकीर्तनं तु स्पष्टत्वान्न व्याख्यातम् ।1102

चिन्तादयस्तु व्यभिचारिभावनिरूपणप्रस्तावे निरूपितत्वान्नेहोच्यन्त इत्याह सानुभावेति । गुणकीर्तनं स्पष्टत्वान्नोच्यत इत्याह गुणकीर्तनं त्विति ।

  1. १।३१
  2. The verse taṃ vīkṣya, etc. which is also cited by Bh.Nṛ., is missing in A.T.A.

  3. ५ । ८५
  4. कुमार॰ ८ । २
  5. A.T.A. reads guṇakīrtanaṃ tu spaṣṭatvāt na vyākhyātam ihaiva tu, which was perhaps intended as a half of a kārikā, but the first foot of this line shows nine syllables. B.M. also seems to give it as a half of a kārikā, but the transcript reads as guṇākhyānaṃ prasiddhatvāt na vyākhyātam ato mayā. N.S.P. gives it as a line of the Avaloka. The sentence as a metrical line is however jarring.