अथ विप्रयोगः—

विप्रयोगस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा ॥ ५७ ॥
मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः ।

प्राप्तयोरप्राप्तिः = विप्रयोगः । तस्य द्वौ भेदौ—मानः, प्रवासश्च । मानविप्रयोगोऽपि द्विविधः—प्रणयमानः, ईर्ष्यामानश्चेति ।

प्राप्तयोरिति । विप्रयोगस्यायोगाद् वैषम्यमिदमित्यर्थः ।