तत्र प्रणयमानः स्यात् 1103कोपोपहितयोर्द्वयोः ॥ ५८ ॥

प्रेमपूर्वको वशीकारः=प्रणयः, तद्भङ्गे मानः = प्रणयमानः । स च द्वयोर्नायकयोर्भवति । तत्र नायकस्य यथोत्तररामचरिते—233

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्‏मलनिभो मुग्धः प्रणामाञ्जलिः ॥1104

प्रणयमानशब्दार्थं निरूपयन्नाह प्रेमपूर्वक इति ।

  1. N.S.P. kapāvasitayoḥ.

  2. ३ । ३७