अथ वीरः—

वीरः प्रतापविनयाध्यवसायसत्त्वा- मोहाविषादनयविस्सयविक्रमाद्यैः ।
243
उत्साहभूः स च दयारणदानयोगात् त्रेधा किलात्र मतिगर्ववृतिप्रहर्षाः ॥ ७३ ॥

1144प्रतापविनयादिभिर्विभावितो दयादिभिरनुभावितः करुणायुद्धदानभिन्नो गर्वधृतिहर्षामर्षस्मृतिमतिवितर्कप्रभृतिभिर्भावित उत्साहः स्थायी स्वदते भावकमनोविस्तारादानन्दाय1145 प्रभवतीत्येष वीरः । तत्र दयावीरो यथा नागानन्दे जीमूतवाहनस्य । युद्धवीरो वीरचरिते रामस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः इति1146 । 1147

गर्भग्रन्थिविमुक्तसंधिविगलद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुड्‏मलकुटीगम्भीरसामध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं पायाद् वः क्रमवर्वमानमहिमाश्चर्यं मुरारेर्वपुः ॥

यथा च ममैव—1148

लक्ष्मीपयोवरोत्सङ्गकुड्‏कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥
विनयादिषु पूर्वमुदाहृतमनुसंधेयम् । प्रतापगुणावर्जनादिवीराणामपि भावात् त्रैवं प्रायोवादः । प्रस्वेदरक्तवदननयनादिक्रोधानुभावरहितो युद्धवीरः, अन्यथा रौद्रः ।

प्रतापादिजन्यादुत्साहस्थायिभावादुत्पन्नो वीरो दयावीरो दानवीरो युद्धवीर इति दयादिभिरनुभावैरुपश्लेषात् त्रेधा विभक्तो, मतिप्रभृतिभिर्व्यभिचारिभिः परां प्रौढिमागतो, विकासादिषु चित्तभूमिषु चेतसो विस्तारमारभमाणो रसिकानां स्वादाय भवतीत्यर्थः । परशुरामबलिनोः क्रमेणोदाहरणे1149 त्यागः सप्तसमुद्रमुद्रितेति गर्भग्रन्थीति च । एवं प्रतापभूरुत्साह उदाहृतः ।244 विनयादिभूस्तदुदाहरणेनैव दर्शितप्राय इत्याह विनयादिष्विति । तत्र युद्धवीरे एतावन्तो वीरानुभावा एतावन्तो रौद्रानुभावा इति विविनक्ति प्रस्वेदेति ।

  1. N.S.P. reads: pratāpavinayādibhir bhāvitaḥ karuṇāyuddhadānādyair anubhāvito garvadhṛti-, etc.

  2. N.S.P. manovistārānandāya.

  3. वी॰ च॰ २ । ३६
  4. N.S.P. kharvagranthi-, etc.

  5. yathā ca mamaiva—lakṣmīpayodharotsaṅga-, etc. is missing in A.T.A.

  6. In A.T.A. Dhanika’s own verse lakṣmīpayodhara, etc. is missing. Bh.Nṛ. here uses the dual number and refers to and cites the two verses tyāgaḥ, etc. and garbhagranthi-, etc. It is not clear what was his view regarding the third example. As this was found in other manuscripts collated for the previous editions, I thought of retaining it in the text.