अथ दैन्यम्—

दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्यामृजादिमत् ॥ १४ ॥

दारिद्र्यन्यक्कारादिविभावैरनोजस्कता चेतसः=दैन्यम् । तत्र च कृष्णतामलिनवसनदर्शनादयोऽनुभावाः । यथा—

वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात् संचिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसां सुतबधूं श्वश्रूश्चिरं रोदिति ॥
शेषं पूर्ववत् ।