अथ नर्म—

परिहासवचो नर्म

यथा रत्नावल्याम्—

सुसंगता

239सहि, जस्स किदे तुमं आअदा सो अअं 240अग्गदो चिट्‏ठदि ।

सागरिका
सासूयम्

241सुसंगदे, कस्स किदे अहं आअदा ?

सुसंगता

242अइ 243अप्पसंकिदे, णं चित्तफलअस्स । ता गेण्ह एदं ।244

इत्यनेन वीजान्वितं परिहासवचनं नर्म ।

32 यथा च वेणीसंहारे—

दुर्योधनश्चेटीहस्तादर्घपात्रमादाय245 देव्याः समर्पयति । पुनः
भानुमती
अर्घं दत्वा

246हला, उवणेहि मे कुसुमाइं जाव अवराणं वि देवाणं सवरिअं णिवत्तेमि

हस्तौ प्रसारयति । दुर्योधनः पुष्पाण्युपनयति । भानुमत्यास्तत्स्पर्शजातकम्पाया हस्तात् पुष्पाणि पतन्ति
247
248इत्यनेन नर्मणा दुःस्वप्नदर्शनोपशमार्थं देवतापूजाविघ्नकारिणा बीजोद्धाटनात् परिहासस्य प्रतिमुखाङ्गत्वं युक्तमिति ।

ननु बीजाद्यन्वितं खल्वङ्गं भवति । इह च युधिष्ठिरोत्साहः द्रौपदीकेशसंयमनलक्षणस्य कार्यस्य बीजम् । न च भानुमतीदुःस्वप्नशान्तिपरिकरपुष्पपातरूपस्य परिहासस्य बीजादिसंबन्ध इति प्रतिमुखसंध्यङ्गत्वमयुक्तम्249 । तत्राह अनेन 250 नर्मणेति ।

  1. ‘सखि, यस्य कृते त्वमागता सोऽयं पुरतस्तिष्ठति ।’ इति च्छाया.

  2. N.S.P. purado.

  3. ‘सुसंगते, कस्य कृतेऽहमागता ?’ इति च्छाया.

  4. ‘अयि आत्मशङ्किते, ननु चित्रफलकस्य । तद् गृहाणेतत् ।’ इति च्छाया.

  5. For appasaṃkide, the printed Ratnā:alī has aṇṇasaṃkide.

  6. पृ॰ ७६
  7. A.T.A. arghyapātra-, etc.

  8. ‘हला, उपनय मे कुसुमानि यावदपरेषामपि देवानां सपर्यां निर्वर्तयामि ।’ इति च्छाया.

  9. पृ॰ ४९
  10. Before ity anena A.T.A. quotes some sentences from Veṇīsaṃhāra.

  11. M.G.T. reads yuktam. This is obviously an error of the scribe.

  12. Gr.MS. and Tri.MS. read karmaṇeti.