36
अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामद्रुहो याचकास्ते ॥283
इत्यनेन ऋषिक्षत्रियामात्यादीनां संगतानां वर्णानां वचसा रामविजयाशंसिनः परशुरामदुर्नयस्याद्रोहयाच्ञाद्वारेणोद्भेदनाद् वर्णसंहार इति ।

एतानि च त्रयोदश प्रतिमुखाङ्गानि मुखसंध्युपक्षिप्तबिन्दुलक्षणावान्तरबीजमहाबीजप्रयत्नानुगतानि284 विधेयानि । एतेषां च मध्ये परिसर्पप्रशमवज्रोपन्यासपुष्पाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति ।

अथ गर्भसंधिमाह—

गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान्न वा स्यात् प्राप्तिसंभवः ॥ ३६ ॥

प्रतिमुखसंधौ लक्ष्यालक्ष्यरूपतया स्तोकोद्भिन्नस्य बीजस्य 285यः सविशेषोद्भेदपूर्वकः सान्तरायो लाभः पुनर्विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च तस्यैवान्वेषणं वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याशात्मको गर्भसंधिरिति । तत्र चौत्सर्गिकत्वेन प्राप्तायाः पताकाया अनियमं दर्शयति—पताका स्यान्न वा इत्यनेन । प्राप्तिसंभवस्तु स्यादेवेति दर्शयति—स्यात् प्राप्तिसंभवः इति । यथा रत्नावल्यां तृतीयेऽङ्के वत्सराजस्य वासवदत्तालक्षणापायेन तद्वेषपरीग्रहसागरिकाभिसरणोपायेन च विदूषकवचसा सागरिकाप्राप्त्याशा प्रथमं पुनर्वासवदत्तया विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनरपायनिवारणोपायान्वेषणं286 नास्ति देवीप्रसादनं मुक्त्वान्य उपायः इत्यनेन दर्शितमिति ।

तत्र चौत्सर्गिकत्वेनेति । पताकाप्राप्त्याशान्वयो हि गर्भसंधिः । सा च पताका अविशेषेण सर्वत्र प्राप्ता । तादृशस्तस्या अनियमं दर्शयतीत्यर्थः ।

  1. ३।५
  2. A.T.A. omits mahābīja.

  3. N.S.P. omits yaḥ.

  4. रत्ना॰ पृ॰ १२५