अथ प्ररोचना—

सिद्धामन्त्रणतो भाविदर्शिका स्यात् प्ररोचना ॥ ४७ ॥

यथा वेणीसंहारे—

पाञ्चालकः

अहं च देवेन चक्रपाणिना385

इत्युपक्रम्य

कृतं संदेहेन—

पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि- क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥386
54 इत्यादिना मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ।387 इत्यन्तेन द्रौपदीकेशसंयमनयुधिष्ठिरराज्याभिषेकयोर्भाविनोरपि सिद्धत्वेन दर्शिका प्ररोचनेति ।

  1. पृ॰ १६५
  2. वे॰ सं॰ ६।१२
  3. पृ॰ १६७