अथ निर्वहणसंधिः—

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ ४८ ॥
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ।

यथा वेणीसंहारे—

कञ्चुकी
उपसृत्य सहर्षम्

महाराज, वर्धसे वर्धसे । अयं खलु कुमारभीमसेनः सुयोधनक्षतजारुणीकृत 56 सकलशरीरो दुर्लक्षव्यक्तिः ।397

इत्यादिना द्रौपदीकेशसंयमनादीनां मुखसंध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थतया योजनम् ।

यथा च रत्नावल्यां सागरिकारत्नावलीवसुभूतिबाभ्रव्यादीनामर्थानां मुखसंध्यादिषु प्रकीर्णानां वत्सराजैककार्यार्थत्वम्—

वसुभूतिः
सागरिकां निर्वर्ण्यापवार्य

बाभ्रव्य, सुसदृशीयं राजपुत्र्या ।398

इत्यादिना दर्शितमिति निर्वहणसंधिः ।

  1. पृ॰ १७९
  2. पृ॰ १७८