59 प्रसार्य

412एहि अयि णिठ्‏ठुरे, इदाणीं पि बंधुसिणेहं दंसेहि ।

अपवार्य

अज्जउत्त, लज्जामि क्खु अहं इमिणा णिसंसत्तणेण । ता लहुं अवणेहि से बंधणं ।

राजा

यथाह देवी ।

बन्धनमपनयति
वासवदत्ता
वसुभूतिं निर्दिश्य

413अज्ज, अमच्चयोगंधरायणेण दुज्जणीकदम्हि जेण जाणंतेण वि ण णिवेदिदं ।414

इत्यनेनान्योन्यवचनात् परिभाषणम् ।

यथा च वेणीसंहारे—

भीमः

कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन ।415

इत्यादिना क्वासौ भानुमती नोपहसति पाण्डवदारान् ।416 इत्यन्तेन भाषणात् परिभाषणम् ।

अथ प्रसादः—

प्रसादः पर्युपासनम् ।

यथा रत्नावल्याम्417देव, क्षम्यताम् । इत्यादि दर्शितम् ।

यथा च वेणीसंहारे—

भीमः
द्रौपदीमुपसृत्य

देवि पाञ्चालराजतनये, दिष्ट्या वर्धसे रिपुकुलक्षयेण ।418

इत्यनेन द्रौपद्या भीमसेनेनाराधितत्वात् प्रसाद इति ।

अथानन्दः—

आनन्दो वाञ्छितावाप्तिः

यथा रत्नावल्याम्—

राजा

यथाह देवी ।

रत्नावलीं गृह्णाति
419

  1. ‘एहि अयि निष्ठुरे, इदानीमपि बन्धुस्नेहं दर्शय । आर्यपुत्र, लज्जे खल्वहमनेन नृशंसत्वेन । तल्लघ्वपनयास्या बन्धनम् ।’ इति च्छाया.

  2. ‘आर्य, अमात्ययौगंधरायणेन दुर्जनीकृतास्मि येन जानतापि न निवेदितम् ।’ इति च्छाया.

  3. पृ॰ १८१
  4. पृ॰ २००
  5. पृ॰ २०१
  6. पृ॰ १८३
  7. पृ॰ २००
  8. पृ॰ १८१