तानेव दशभेदानुद्दिशति—

नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ ८ ॥

ननु71

डोम्बी श्रीगदितं भाणो भाणीप्रस्थानरासकाः ।
काव्यं च सप्त नृत्यस्य भेदाः स्युस्तेऽपि भाणवत् ॥
इत्यादिना72 रूपकान्तराणामपि भावादवधारणानुपपत्तिरित्याशङ्कयाह—

अन्यद् भावाश्रयं नृत्यं

रसाश्रयान्नाट्याद् भावाश्रयं नृत्यमन्यदेव । तत्र भावाश्रयमिति विषयभेदान्नृत्यमिति73 नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात् तत्कारिषु च नर्तकव्यपदेशाल्लोकेऽपि च74 रङ्गे प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेदत्वाच्छ्रीगदितादेर्नावधारणानुपपत्तिः75 । नाटकादि च रसविषयम् । रसस्य च पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थरूपत्वाद्76 वाक्यार्थाभिनयात्मकत्वं रसाश्रयमित्यनेन दर्शितम् । नाट्यमिति च नट अवस्पन्दने इति नटेः किंचिच्चलनार्थत्वात् सात्त्विकबाहुल्यम् । अत एव तत्कारिषु नटव्यपदेशः । लोकेऽपि च रङ्गे नाट्यमिति व्यपदेशः । एतदुक्तं भवति77 यथा च गात्र9 विक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृत्यादन्यन्नृत्तं78 तथा वाक्यार्थाभिनयात्मकान्नाट्यात् पदार्थाभिनयात्मकमन्यदेव नृत्यमिति ।

ननु डोम्बीप्रभृतीनां रूपकान्तराणामपि भावात् पुनरप्यवधारणमनुपपन्नमिति चोदयति ननु चेति । उत्तरम् अन्यदिति । कस्मादन्यत्वमित्यपेक्षायां व्याचष्टे रसाश्रयादिति । कथं नाट्यान्नृत्यस्य भेद इत्यत्राह तत्रेति । विषयभेदात् स्वरूपभेदात् कर्तृभेदात् संज्ञाभेदाच्च भेदः । तत्र भावाश्रयमित्यनेन विषयभेदो तर्शितः । आङ्गिकबाहुल्यादित्यनेन स्वरूपभेदो दर्शितः । तत्कारिषु च नर्तकव्यपदेशादित्यनेन कर्तृभेदो दर्शितः । 79प्रेक्षणीयकमित्यनेत संज्ञाभेदो दर्शितः । ननु नाटकादेस्ततो भेदः केन दर्शितः । तत्राह रसाश्रयमित्यनेनेति । कथमनेन दर्शितमित्यपेक्षायामुक्तं नाटकादि च रसविषयमित्यादि । यद्यपि विभावादयस्तैरतिशयोक्त्यादिभिः प्रतिपाद्यमाना वाक्यार्था एव न पदार्थाः । तथापि तेषां संयोगाद् रसोत्पत्तेः ते तं प्रति पदार्थीभावं भजन्ते । रसोऽपि तदुत्पाद्यो वाक्यार्थीभवति । अतो वाक्यार्थीभूतरसविषयं नाटकादि । तेनात्रपि रसविषयमिति विषयभेदः, सात्त्विकबाहुल्येन स्वरूपभेदः, तत्कारिषु च नटव्यपदेशादित्यनेन कर्तृभेदः, लोकेऽपि च रङ्गे नाट्यमिति व्यपदेशादिति80 संज्ञाभेदोऽपि द्रष्टव्यः । 81 एतदुक्तं भवतीति वदन्नुभयोरपि गात्रविक्षेपात्मकत्वे समानेऽप्यनयोः किंकृतो भेद इति शङ्कां शभयन्नाह यथा चेति । तत्साम्येऽपि 82वाक्यार्थाभिनयात्मकत्वं पदार्थाभिनयात्मकत्वं च द्वयोर्भेदकमिति ।

  1. nanu ca is lemma in Laghuṭīkā, but N.S.P. has only nanu.

  2. N.S.P. iti rūpakāntarāṇām, etc.

  3. A.T.A. nṛtyam iti ca nṛter, etc.

  4. N.S.P. (loke ’pi) cātra.

  5. N.S.P. avadhāraṇopapattiḥ.

  6. N.S.P. -vākyārthahetukatvād, etc. vākyārtharūpatvād is the correct reading, and not … hetukatvād as in the N.S.P. or … hetutvād as quoted in Bhoja’s Śṛṅgāra Prakāśa (1963), page 537.

  7. This is in the light of the explanation by Bh. Nṛ.

  8. N.S.P. nṛttād anyan nṛtyam.

  9. Tri.MS. reads raṅgaprekṣitam ity anena in place of prekṣaṇīyakam ity anena.

  10. In the Avaloka the expression raṅge nāṭyam iti vyapadeśāt is not found as such. But according to Bhaṭṭanṛsiṃha the expression in some form should find its place or the idea understood in the context.

  11. etad uktaṃ bhavati is also not seen in the Avaloka; it seems that according to Bh.Nṛ. it was in the text.

  12. Only T.MS. reads tatsāmye ’pi vākyārthābhinayataḥ katamat padārthābhinayataḥ katamac ca dvayor bhedakam iti. All others read what is given in the text.