9 विक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृत्यादन्यन्नृत्तं78 तथा वाक्यार्थाभिनयात्मकान्नाट्यात् पदार्थाभिनयात्मकमन्यदेव नृत्यमिति ।

ननु डोम्बीप्रभृतीनां रूपकान्तराणामपि भावात् पुनरप्यवधारणमनुपपन्नमिति चोदयति ननु चेति । उत्तरम् अन्यदिति । कस्मादन्यत्वमित्यपेक्षायां व्याचष्टे रसाश्रयादिति । कथं नाट्यान्नृत्यस्य भेद इत्यत्राह तत्रेति । विषयभेदात् स्वरूपभेदात् कर्तृभेदात् संज्ञाभेदाच्च भेदः । तत्र भावाश्रयमित्यनेन विषयभेदो तर्शितः । आङ्गिकबाहुल्यादित्यनेन स्वरूपभेदो दर्शितः । तत्कारिषु च नर्तकव्यपदेशादित्यनेन कर्तृभेदो दर्शितः । 79प्रेक्षणीयकमित्यनेत संज्ञाभेदो दर्शितः । ननु नाटकादेस्ततो भेदः केन दर्शितः । तत्राह रसाश्रयमित्यनेनेति । कथमनेन दर्शितमित्यपेक्षायामुक्तं नाटकादि च रसविषयमित्यादि । यद्यपि विभावादयस्तैरतिशयोक्त्यादिभिः प्रतिपाद्यमाना वाक्यार्था एव न पदार्थाः । तथापि तेषां संयोगाद् रसोत्पत्तेः ते तं प्रति पदार्थीभावं भजन्ते । रसोऽपि तदुत्पाद्यो वाक्यार्थीभवति । अतो वाक्यार्थीभूतरसविषयं नाटकादि । तेनात्रपि रसविषयमिति विषयभेदः, सात्त्विकबाहुल्येन स्वरूपभेदः, तत्कारिषु च नटव्यपदेशादित्यनेन कर्तृभेदः, लोकेऽपि च रङ्गे नाट्यमिति व्यपदेशादिति80 संज्ञाभेदोऽपि द्रष्टव्यः । 81 एतदुक्तं भवतीति वदन्नुभयोरपि गात्रविक्षेपात्मकत्वे समानेऽप्यनयोः किंकृतो भेद इति शङ्कां शभयन्नाह यथा चेति । तत्साम्येऽपि 82वाक्यार्थाभिनयात्मकत्वं पदार्थाभिनयात्मकत्वं च द्वयोर्भेदकमिति ।

प्रसङ्गान्नृत्तं व्युत्पादयति—

नृत्तं ताललयाश्रयम् ।

तालः = चञ्चत्पुटादिः,83 लयः=द्रुतादिः, तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशून्यो नृत्तमिति ।

प्रसङ्गादिति । अवधार्यत्वेन नृत्यमुक्तम् । नृत्यप्रसङ्गान्नृत्तमुच्यते इति । तालश्चञ्चत्पुटादिरिति । ‘चञ्चत्पुटश्चाचपुटः षट्‏पितापुत्रकस्तथा’84

  1. N.S.P. nṛttād anyan nṛtyam.

  2. Tri.MS. reads raṅgaprekṣitam ity anena in place of prekṣaṇīyakam ity anena.

  3. In the Avaloka the expression raṅge nāṭyam iti vyapadeśāt is not found as such. But according to Bhaṭṭanṛsiṃha the expression in some form should find its place or the idea understood in the context.

  4. etad uktaṃ bhavati is also not seen in the Avaloka; it seems that according to Bh.Nṛ. it was in the text.

  5. Only T.MS. reads tatsāmye ’pi vākyārthābhinayataḥ katamat padārthābhinayataḥ katamac ca dvayor bhedakam iti. All others read what is given in the text.

  6. After cañcatpuṭādiḥ, the following lines are found only in A.T.A.:

    kālo laghvādiniyatakriyayā saṃmitāṃ matim
    gītāder vidadhat tālaḥ sa ca dvedhā budhaiḥ smṛtaḥ ||
    This verse is however found (with mitim) in the Saṃgītaratnākara, ch. V. 3 (Adyar). It is not clear whether this was quoted from some earlier source. This verse and the following line on laya are quoted also by Kumārasvāmin. See the Pratāparudriya, Balamanorama Press ed., 1950, page 73: layo ’pi ‘tālāntarālavartī yaḥ kālo ’sau layanāl layaḥ’ etadubhayāśrayaṃ deśyaparaparyāyaṃ padārthābhinayaśūnyaṃ nṛttam iti.

  7. This line is found in one of the verses attributed to Mataṅga in Siṃhabhūpāla’s commentary on the Saṃgītaratnākara (vol. III, Adyar, 1951, p. 9).