अथ चूलिका—

450अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना ॥ ६१ ॥

नेफ्थ्यपात्रेणार्थसूचनं = चूलिका । यथोत्तरचरिते द्वितीयाङ्कस्यादौ—

नेपथ्ये

स्वागतं तपोधनायाः ।

ततः प्रविशति तपोधना
451 इति नेपथ्यपात्रेण वासन्तिकया आत्रेय्याः सूचनात् चुलिका ।

यथा वा वीरचरिते चतुर्थाङ्कस्यादौ

नेपथ्ये

भो भो वैतालिकाः,452 प्रवर्त्यन्तां प्रवर्त्यन्तां मङ्गलानि—453

67 कृशाश्वान्तेवासी जयति भगवान् कौशिकमुनिः सहस्रांशोर्वंशे जगति विजयि क्षत्रमधुना ।
विनेता क्षत्रारेर्जगदभयदानव्रतधरः शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते ॥454
इत्यत्र नेपथ्यपात्रैर्देवै रामेण परशुरामो जित इति सूचनात् चूलिका ।

  1. ‘अन्तर्यवनिका’ इति पाठः.

  2. पृ॰ ५१
  3. N.S.P. vaimānikāḥ.

  4. पृ॰ ११७
  5. वी॰ च॰ ४।१