तत्र121 अवान्तरबीजस्य संज्ञान्तरमाह—

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ १७ ॥

यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्तरकार्यहेतुः—

उदयनस्येन्दोरिवोद्वीक्षते ।

सागरिका
श्रुत्वा 122सहर्षं परिवृत्य सस्पृहं पश्यन्ती

123कहं एसो सो उदयणणरिंदो जस्स अहं तादेण दिण्णा ।124

इत्यादि । बिन्दुर्जले तैलबिन्दुवत् प्रसारित्वात् ।

बिन्दुर्जले तैलबिन्दुवदिति बिन्दुशब्दोऽपि गौण इत्युक्तं भवति । कार्यार्थी कश्चित् कर्ता125 कमपि कार्यसाधकहेतुविशेषमवलम्ब्य हि व्याप्रियते । स चात्र परस्तादनेकधा विस्तारित्वात् प्रथमं बीजशब्दवाच्योऽभूत् । पश्चाद् बहुविधं प्रसारित्वाद् बिन्दुशब्दवाच्योऽभूत् । एवमुपर्यपि नेयमिति ।

  1. N.S.P. omits tatra.

  2. saharṣaṃ parivṛtya saspṛhaṃ paśyantī is missing in N.S.P.

  3. ‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया.

  4. रत्ना० पृ० ४०
  5. T.MS. omits kartā, whereas all others read it.