पुनश्च—

द्वैधा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताः ।

मध्याप्रगल्भाभेदानां प्रत्येकं ज्येष्ठाकनिष्ठात्वभेदेन द्वादश भेदा भवन्ति । मुग्धा त्वेकरूपैव ।

ज्येष्ठाकनिष्ठे यथामरुशतके586

दृष्टैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
101 ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥

न चानयोर्दाक्षिण्यप्रेमभ्यामेव व्यवहारः । अपि तु प्रेम्णापि । यथा चैतत् तथोक्तं दक्षिणलक्षणावसरे । 587एषां च धीरमध्या-अधीरमध्या-धीराधीरमध्या-धीरप्रगल्भा-अधीरप्रगल्भा-धीराधीरप्रगल्भाभेदानां प्रत्येकं ज्येष्ठा-कनिष्ठाभेदाद् द्वादशानां वासवदत्ता-रत्नावलीवत् प्रबन्धनायिकानामुदाहरणानि महाकविप्रबन्धेष्वनुसर्तव्यानि ।

पुनश्चेति । स्वीया मुग्धामध्याप्रगल्भाभेदेन या त्रेधा विभक्ता एवंभूता सा पुनश्च द्विविधेत्यर्थः । अमुग्धा = मध्या च प्रगल्भा च द्वादशधोदिता । तावद्भेदवत्त्वं च उभयोरपि धीरा धीराधीरा अधीरेति षड् भेदाः तेषां प्रत्येकं ज्येष्ठाकनिष्ठात्वेन द्वैविध्याद् भवति । अमुग्धेति विशेषणस्य विवक्षामाह मुग्धा त्वेकरूपैवेति । धीरत्वाधीरत्वधीराधीरत्वतारतम्येन ज्येष्ठात्वं कनिष्ठात्वं च । तथाविधतारतम्यशून्यत्वात् मुग्धाया एकरूपत्वमेवेति । ननु धीरादिभेदत्रयवत्योर्मध्याप्रगल्भयोः ज्यैष्ठ्यं कानिष्ठ्यं चोच्यते । तदनुपपन्नम् । तयोः कनिष्ठायां प्रियस्य प्रेम्णैव व्यवहारात् । ज्येष्ठायां दाक्षिण्येनैव व्यवहाराच्च । तत्राह न चानयोरिति । अनयोर्ज्येष्ठाकनिष्ठयोर्ज्येष्ठायां दाक्षिण्येनैव व्यवहारः कनिष्ठायां प्रेम्णैवेति योऽयं नियमः स नास्ति । उभयोरपि प्रेम्णापि व्यवहारदर्शनात् । ज्येष्ठायां प्रेम्णा प्रियस्य व्यवहारः किं दृष्टः । ओमित्याह यथा चैतदिति । दक्षिणोऽस्यां = ज्येष्ठायां सहृदय इति हि सहृदयलक्षणम् । सहृदयत्वं च प्रेम्णैवेति ।

  1. श्लो॰ १९
  2. The portion given within brackets in N.S.P. (as here) is also not found in A.T.A.