109 तत्र—

चिन्तानिःश्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैः ।
युक्ताः षडन्त्या द्वे चाद्ये क्रीडौज्ज्वल्यप्रहर्षितैः ॥ २८ ॥

परस्त्रियौ तु कन्यकोढे । संकेतात् पूर्वं विरहोत्कण्ठिते, पश्चाद् विदूषकादिना सहाभिसरन्त्यावभिसारिके, कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति 605व्यवस्थतैवानयोरिति । अस्वाधीनप्रिययोरवस्थान्तरायोगात् । यत्तु मालविकाग्निमित्रादौ606 योऽप्येवं धीरः सोऽपि दृष्टो देव्याः पुरतः इति मालविकावचनानन्तरम्—

राजा
दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम् ।
तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥607
इत्यादि, तन्न खण्डितानुनयाभिप्रायेण । अपि तु सर्वथा मम देव्यधीनत्वमाशङ्क्य निराशा मा भूदिति कन्याविश्रम्भणायेति । तथानुपसंजातनायकसमागमाया देशान्तरव्यवधानेऽप्युत्कण्ठितात्वमेवेति न प्रोषितप्रियात्वमनायत्तप्रियत्वादेवेति ।

त्रेधा हि नायिकाः—स्वस्त्री अन्यस्त्री साधारणस्त्री चेति । तत्रान्यस्त्रियं प्रत्यपि स्वाधीनपतिकाद्यवस्थासु विशेषमाह परस्त्रियौ त्विति । अनयोरवस्थान्तराभावे हेतुमाह अस्वाधीनेति । नन्वनयोः खण्डितात्वमपि क्वचिद् दृष्टमिति चेत् तदनुभाष्य निराकरोति तन्नेति । व्यवस्थितनायिकायाः प्रोषितप्रियात्वमेव कुतो न भवति । तत्राह अनुपसंजातेति । तत्र हेतुमाह अनायत्तप्रियत्वादिति । स्वायत्तत्वे सति नायकस्य कार्यादिना प्रवासे सति हि प्रोषितप्रियात्वमिति ।

  1. N.S.P. vyavasthitaiva.

  2. पृ॰ ७८
  3. मालविका॰ ४ । १४