110 अथासां सहायिन्यः—

दूत्यो दासी सखी कारूर्धात्रेयी प्रतिवेशिका ।
लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः ॥ २९ ॥

दासी = परिचारिका । सखी = स्नेहनिबद्धा । कारूः = रजकीप्रभृतिः । धात्रेयी = उपमातृसुता । प्रतिवेशिका = प्रतिगृहिणी । लिङ्गिनी = भिक्षुक्यादिका । शिल्पिनी = चित्रकारादिस्त्री । स्वं चेति दूतीविशेषा । 608नायकमित्राणां पीठमर्दादीनां निसृष्टार्थत्वादिना गुणेन युक्ताः । तथा च मालतीमाधवे कामन्दकीं प्रति—

शास्त्रेषु निष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥609

नेतृमित्रगुणान्विता इति । नायकमित्रस्य ये गुणाः नायिकासहायिन्योऽपि तद्गुणा भवेयुरित्यर्थः ।

  1. The portion within brackets is missing in A.T.A.

  2. ३ । ११